ಶಿವಮೊಗ್ಗದ ಸಹ್ಯಾದ್ರಿ ಕಲಾ ಮಹಾವಿದ್ಯಾಲಯದಲ್ಲಿ ದಿನಾಂಕ : ೧೫-೦೩-೨೦೨೨ ರಂದು ನಡೆದ “ಸ್ವಾಸ್ಥ್ಯ ಸೈಹಾದ್ರಿ” ಎನ್ನುವ ಹೆಸರಿನ ರಾಷ್ಟಿçಯ ಸಂಗೋಷ್ಠಿಯ ಸ್ಮರಣ ಸಂಚಿಕೆಯ ಲೋಕಾರ್ಪಣೆಗೊಳಿಸಿದ ಸಂದರ್ಭ.

कर्नाटकराज्ये शिवमोग्गामहानगरस्थे कुवेंपु विश्वविद्यालयान्तर्गते सह्याद्रिकलामहाविद्यालयपरिसरे
“संस्कृतसाहित्ये स्वास्थ्यरक्षणम् ; तस्य प्रस्तुतता च” इत्यस्मिन् विषये १५ ऽ १६-०३-२०२२ दिनाङ्के
आयोजिते द्विदिवसीये राष्ट्रियसम्मेलने प्रथमदिवसे प्रथमसत्रे “स्वास्थ्यसह्याद्रिः” इतिशीर्षिकायाः
सम्मेलनविशेषसंपुटस्य लोकार्पणम् अभवत् ।

तस्मिन् सन्दर्भे वेदिकायां कुवेंपुविश्वविद्यालयस्य कुलपतिमहोदयाः, सह्याद्रिकलामहाविद्यालयस्य
प्रांशुपालाः, रत्नागिरि-संस्कृतविश्वविद्यालयस्य निदेशकाः डा. दिनकरमराठे महोदयाः, राष्ट्रियसम्मेलनस्य
मुख्य-आयोजितारः, कुवेंपु विश्वविद्यालयस्य संस्कृत-अध्ययनविभागस्य मुख्यस्थाः, स्वास्थ्यसह्याद्रेः
प्रधानसंपादकाश्च डा. एम्. ए. श्रुतिकीर्ति महाभागाः, स्वास्थ्यसह्याद्रेः सह-संपादकाः डा. काशीनाथ शास्त्री
हेच्. वि. महोदयाः, डा. सविता महाभागाः, वेदसंस्कृत-अकाडेम्याः निदेशकाः डा. गोपालकृष्ण हेगडे
महोदयाश्च आसन् ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *